ಶುಕ್ರವಾರ, ಏಪ್ರಿಲ್ 20, 2012

शिवावतारमञ्जरी

(नूतनसुहृद्वर नीलकण्ठ कुलकर्णी तथा अहं च मेलयित्वा काव्यमेकं रचयितुमुत्सुकौ । काव्यस्यास्य प्रथमो भागः अत्र निवेद्यते। सर्वे रसज्ञाः मार्गं दर्शयन्तु इति प्रार्थयावः।। )

यः पुरावीरभद्रेति दक्षाध्वरविनाशने
अंशावतारमाप्नोत् स कुर्यान्नो मङ्गलं सदा ||१||
समुद्रमथने जातं कालकूटं महाविषम्
पीतवान् लोकरक्षार्थं लयकारो भयङ्करः ||२||
मणिमल्लखलध्वान्तः शान्तो विश्रान्त मानसे
विजृम्भते स मैलारलिङ्गोऽनङ्गविनाशनः ||३||
धृत्वा चन्द्रमसं नूनं व्योमकेशो विराजते
श्रीमत्सोमेश्वरस्यास्य रूपे कॊप्पलतोटके ||४||
शंकरः शं करोत्वत्र काव्येऽस्मिन् तु युगन्धरः
आवयोः पद्यमालाभिरर्चयावो मुहुर्मुहुः ||५||
एकदा तु  महोद्वेगे  देवा राक्षसपीडिताः
वैकुणठवासिनं द्रष्टुं धाविता बहुसङ्कटे ||६||
अवतारमतःकर्तुं निश्चयन् हरिरभ्यगात्
हरश्च तस्य साहाय्यं कर्तुं नीश्चितमानसः ||७||
पार्वतीं निजपत्नीं स्वं मानसं कथयन् मुदा
कैलासं सहसा गत्वा शिवो वचनमब्रवीत् ||८||
शृणु देवि! पराशक्ति! प्रलयङ्करि! पार्वति!
अगजे स्कन्दमातस्! त्वं गिरिजाते! मम प्रिये! ||९||
एतदुक्त्वा व्योमकेशो मौनं भजति मौनिराट्
कथं वक्ष्येऽहमित्येवं चिन्तयन् चित्तभित्तिषु ||१०||
हिमवद्गिरिसम्भूता शम्भुपत्नी स्वयम्भुवा
पप्रच्छ कम्बुकण्ठेन नीलकण्ठं विचिन्तितम् ||११||
किमेतच्चिन्तितं कान्त! भक्तचिन्तामणे त्वया
मन्येऽहं भुवि भक्तानां जीवितं कुशलं खलु ||१२||
शम्भुरुवाच-
सर्वत्र राजते देवि! राक्षसाणां विजृम्भणम्
अत एवावतारार्थं निश्चयं कृतवान् हरिः ||१३||
सूर्यदेवान्विते वंशे राघवो रामनामकः 
धर्मरक्षणकार्यार्थं त्रेतेऽस्मिन् भुवि गच्छति ||१४||
सीतेति तस्य दाराः सा लक्ष्मी च मिथिला पुरे
वतार्य रामचन्द्रं हि वृणोति तु भविष्यति ||१५||
गिरिजा उवाच-
ममापि तेऽस्तु साङ्गत्यं भूमौ भूमावतारणे
सदा शीताचलावासात् व्यथितं मम मानसम् ||१६||
एतच्छ्रुत्वा ललाटेन्दुर्मन्दहासः शिवोऽब्रवीत्
शम्भुरुवाच-
त्वया यदुक्तं तद्देवि नैश्चित्येन त्वसम्भवम् ||१७||
रुद्ररूपो भवत्येको ब्रह्मचारी महाबलिः
हनूमन्नामके भूमौ कपिवीरो वशंवदः ||१८||
अतस्त्वां तत्र नेतुं तु समर्थोऽस्मि न पार्वती 
रामस्य ध्येयसाध्यार्थं वतारं खलु निश्चितम् ||१९||
चिरं जीवति लोकेऽस्मिन् मारुती रामसेवकः
ममांशरूपधारश्च रामस्य विजयध्वजः ||२०||
न साध्यं सर्वदा स्थातुं त्वां त्यक्त्वा परमेश्वरि
अतो मदंशमात्रेण मारुतिर्जनयिष्यति ||२१||
इत्थं हि कथयन्नासीत् शिवः कैलासपर्वते
दृष्टं ताभ्यां वने युग्मं कप्योस्तत्रैव तद्दिने || २२||
गर्भादानं कृतं तत्र हरेण महिमान्वितम्
धृत्वा तं पार्वती पश्चात् वायवे चेदमब्रवीत्||२३||
गिरिजा उवाच-
नयेदं सुन्दरं गर्भं तापसीमञ्जनां तथा
यच्छ संरक्षणार्थं त्वं तवपुत्रमिमम् मुदा||२४||
सूक्तमेतदिति ज्ञात्वा तथैव वायुना कृतम्
स एव समभूत् काले मारुतिः पावनिः पुरा ||२५||
एवं शिवांश सम्भूतो मारुतिर्जगतीतले
मङ्गलं सततं कुर्यात् रामभक्तो महाबलिः ||२६||